Vishnu Sahasranama Stotra: The Infallible Medium of Divine Worship

Vishnu Sahasranama Stotra: The Infallible Medium of Divine Worship

Vishnu Sahasranama Stotra: The Infallible Medium of Divine Worship


Discover the sacred power, recitation method, transformative benefits and spiritual mysteries of Vishnu Sahasranama Stotra


Vishnu Sahasranama Stotram is one of the most revered and powerful hymns of Sanatan Dharma. Containing one thousand sacred names of Lord Vishnu, the universal sustainer and protector, it is regarded as a complete spiritual practice that purifies the mind, refines actions and elevates the soul toward liberation.

Introduction

In the Vedic vision, Brahma, Vishnu and Mahesh represent the three fundamental functions of existence: creation, preservation and dissolution. Among them, Lord Vishnu is worshipped as the preserver, the one who maintains harmony, protects dharma and rescues beings from calamities. Vishnu Sahasranama, the “thousand names of Vishnu”, praises these qualities and reveals the divine as both cosmic and intensely personal.

Scriptural Background Of Vishnu Sahasranama

The Vishnu Sahasranama Stotram appears in the Anushasana Parva of the Mahabharata.

After the Kurukshetra war, Yudhishthira was burdened with questions about sin, duty, justice and the ultimate good. Guided by Shri Krishna, he approached Bhishma Pitamah lying on the bed of arrows. There Bhishma answered his questions by chanting the thousand names of Lord Vishnu, which Veda Vyasa later preserved in the Mahabharata.

This stotra is therefore considered a teaching that transcends time, context and circumstances, offering guidance for seekers in every age.

Core Question And Bhishma’s Answer

Yudhishthira asks:

  • Who is the one supreme deity?

  • What is the one ultimate refuge?

  • By praising whom and worshipping whom do humans attain supreme good?

  • What is the highest dharma among all dharmas?

  • By chanting what can one be freed from bondage to birth and death?

Bhishma replies that the supreme goal, the highest refuge and the destroyer of all sorrows is Lord Vishnu alone and that chanting his thousand names with devotion is the surest way to attain auspiciousness, freedom from suffering and ultimate liberation.

The Opening Verses And Their Essence

Yasya smaranamātreṇa janma saṁsāra bandhanāt
Vimuchyate namas tasmai Vishṇave prabhavishṇave

Namas samasta bhūtānām ādibhūtāya bhūbhṛte
Anekarūpa rūpāya Vishṇave prabhavishṇave

The stotra begins by declaring that mere remembrance of Vishnu is enough to loosen the bonds of birth and worldly entanglement. He is the foundation of all beings, the sustainer of earth, the one who appears in countless forms yet remains beyond all forms.

Bhishma then instructs that the person who constantly praises the Lord with these thousand names, worships him with devotion, meditates on him and offers all actions to him, crosses all sorrows and reaches the highest welfare.

Glimpse Of Vishnu’s Divine Names

ॐ श्री परमात्मने नमः ॥ अथ श्री विष्णु सहस्रनाम स्तोत्रम् ॥ यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् । विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे । नमः समस्तभूतानामादिभूताय भूभृते । अनेकरूपरूपाय विष्णवे प्रभविष्णवे । [ वैशम्पायन उवाच ] श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः । युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥1॥ [ युधिष्ठिर उवाच ] किमेकं दैवतं लोके किं वाप्येकं परायणम् । स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥2॥ को धर्मः सर्वधर्माणां भवतः परमो मतः । किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥3॥ [ भीष्म उवाच ] जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् । स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः ॥4॥ तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् । ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥5॥ अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् । लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥6॥ ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् । लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥7॥ एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥8॥ परमं यो महत्तेजः परमं यो महत्तपः । परमं यो महद्ब्रह्म परमं यः परायणम् ॥9॥ पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥10॥ यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥11॥ तस्य लोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥12॥ यानि नामानि गौणानि विख्यातानि महात्मनः । ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥13॥ Meaning Om, salutations to the Supreme Soul. Now begins the hymn of a thousand names of Lord Vishnu (Sri Vishnu Sahasranama Stotra). I bow to Lord Vishnu, by whose mere remembrance a person becomes free from the bondage of birth and the world. I salute Lord Vishnu, who is the primordial form of all beings, who upholds the earth and manifests in many forms. [Vaishampayana spoke] After hearing those words which thoroughly and completely sanctify all dharmas (righteous duties), Yudhishthira again questioned Bhishma, son of Shantanu. [Yudhishthira asked] Who is the one supreme deity in this world? What is the highest supreme goal? By praising and worshipping whom can human beings obtain welfare? Which is the greatest dharma (duty) among all dharmas? And by chanting what can a being be freed from the bonds of birth and the world? [Bhishma spoke] He who is the lord of the universe, the god of gods, infinite and the supreme person - a man should always arise and praise Him with a thousand names. The man who daily worships, meditates upon, praises and bows to Him with devotion - even he who performs sacrifices is indeed worshipping only Him. By always praising Lord Vishnu, who is without beginning or end, the master of all worlds, the ruler of the universes - a person overcomes all sorrows. He who knows Brahma, knows all dharmas, increases the glory of all worlds, is lord of the worlds, most wondrous and the cause of the creation of all beings - it is my view that the best dharma among all is that a person should always worship the lotus-eyed Lord with hymns and devotion. He who is supremely radiant, the greatest ascetic, the Supreme Brahman and the highest goal - who is the purest of the pure, most auspicious of the auspicious, the divine among gods and the imperishable father of all beings. From whom all beings are born at the beginning of the ages and into whom they dissolve at the end of the ages - O King! Listen now to those one thousand names of Lord Vishnu, master of the worlds, lord of all beings, remover of sins and fears. These names are renowned as belonging to the supreme soul Vishnu and have been sung by the sages - now, for your welfare, I declare them to you.

ॐ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । भूतकृद् भूतभृद् भावो भूतात्मा भूतभावनः ॥14॥ पूतात्मा परमात्मा च मुक्तानां परमा गतिः । अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥15॥ योगो योगविदां नेता प्रधानपुरुषेश्वरः । नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः ॥16॥ सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः । सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥17॥ स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः । अनादिनिधनो धाता विधाता धातुरुत्तमः ॥18॥ अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः । विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥19॥ अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः । प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥20॥ ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥21॥ ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः । अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥22॥ सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः । अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥23॥ अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः । वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥24॥ वसुर्वसुमनाः सत्यः समात्मासम्मितः समः । अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥25॥ रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः । अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः ॥26॥ सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः । वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः ॥27॥ लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः । चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥28॥ भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः । अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥29॥ उपेन्द्रो वामनः प्रांशुरमोघः शुचिरुर्जितः । अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥30॥ वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः । अतीन्द्रियो महामायो महोत्साहो महाबलः ॥31॥ महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः । अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥32॥ महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः । अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥33॥ मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः । हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥34॥ अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान्स्थिरः । अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥35॥ गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः । निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥36॥ अग्रणीर्ग्रामणीः श्रीमान्न्यायो नेता समीरणः । सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥37॥ आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः । अहःसंवर्तको वह्निरनिलो धरणीधरः ॥38॥ सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः । सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥39॥ असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः । सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ॥40॥ वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः । वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥41॥ सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः । नैकरूपो बृहद् रूपः शिपिविष्टः प्रकाशनः ॥42॥ ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः । ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥43॥ अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः । औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥44॥ भूतभव्यभवन्नाथः पवनः पावनोऽनलः । कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥45॥ युगादिकृद्युगावर्तो नैकमायो महाशनः । अदृश्योऽव्यक्तरूपश्च सहस्रजिदनन्तजित् ॥46॥ इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः । क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥47॥ अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः । अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥48॥ स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः । वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥49॥ अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः । अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥50॥ पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् । महर्द्धिर्ऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥51॥ अतुलः शरभो भीमः समयज्ञो हविर्हरिः । सर्वलक्षणलक्षण्यो लक्ष्मीवान्समितिञ्जयः ॥52॥ विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः । महीधरो महाभागो वेगवानमिताशनः ॥53॥ उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः । करणं कारणं कर्ता विकर्ता गहनो गुहः ॥54॥ व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः । परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥55॥ रामो विरामो विरजो मार्गो नेयो नयोऽनयः । वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥56॥ वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः । हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥57॥ ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः । उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥58॥ विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् । अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥59॥ अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः । नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥60॥ यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः । सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥61॥ सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् । मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥62॥ स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् । वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥63॥ धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् । अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥64॥ गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः । आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥65॥ उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥66॥ सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः । विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः ॥67॥ जीवो विनयितासाक्षी मुकुन्दोऽमितविक्रमः । अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥68॥ अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः । आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥69॥ महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः । त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥70॥ महावराहो गोविन्दः सुषेणः कनकाङ्गदी । गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥71॥ वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः । वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥72॥ भगवान् भगहानन्दी वनमाली हलायुधः । आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥73॥ सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः । दिविस्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥74॥ त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् । संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥75॥ शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः । गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥76॥ अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः । श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ॥77॥ श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः । श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥78॥ स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः । विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥79॥ उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः । भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥80॥ अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः । अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥81॥ कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः । त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥82॥ कामदेवः कामपालः कामी कान्तः कृतागमः । अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥83॥ ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः । ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥84॥ महाक्रमो महाकर्मा महातेजा महोरगः । महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥85॥ स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः । पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥86॥ मनोजवस्तीर्थकरो वसुरेता वसुप्रदः । वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥87॥ सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः । शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥88॥ भूतावासो वासुदेवः सर्वासुनिलयोऽनलः । दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥89॥ विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् । अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥90॥ एको नैकः सवः कः किं यत्तत्पदमनुत्तमम् । लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥91॥ सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी । वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥92॥ अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् । सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥93॥ तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः । प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥94॥ चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः । चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥95॥ समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः । दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥96॥ शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः । इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥97॥ उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः । अर्को वाजसनः श्रृङ्गी जयन्तः सर्वविज्जयी ॥98॥ सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः । महाह्रदो महागर्तो महाभूतो महानिधिः ॥99॥ कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः । अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥100॥ सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः । न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥101॥ सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः । अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥102॥ अनुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् । अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्द्धनः ॥103॥ भारभृत्कथितो योगी योगीशः सर्वकामदः । आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥104॥ धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः । अपराजितः सर्वसहो नियन्तानियमोऽयमः ॥105॥ सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः । अभिप्रायः प्रियार्होऽर्हः प्रियकृत्प्रीतिवर्धनः ॥106॥ विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः । रविर्विरोचनः सूर्यः सविता रविलोचनः ॥107॥ अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः । अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥108 सनात्सनातनतमः कपिलः कपिरप्ययः । स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥109॥ अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः । शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥110॥ अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः । विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥111॥ उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः । वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥112॥ अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः । चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥113॥ अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः । जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥114॥ आधारनिलयोऽधाता पुष्पहासः प्रजागरः । ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥115॥ प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः । तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥116॥ भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः । यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥117॥ यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः । यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च ॥118॥ आत्मयोनिः स्वयंजातो वैखानः सामगायनः । देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥119॥ शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः । रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥120॥ ॥ सर्वप्रहरणायुध ॐ नम इति ॥ इतीदं कीर्तनीयस्य केशवस्य महात्मनः । नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥121॥ य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् । नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥122॥ वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् । वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥123॥ धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् । कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥124॥ भक्तिमान्यः सदोत्थाय शुचिस्तद्गतमानसः । सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥125॥ यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च । अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥126॥ न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति । भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥127॥ रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् । भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥128॥ दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् । स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥129॥ वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः । सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥130॥ न वासुदेवभक्तानामशुभं विद्यते क्वचित् । जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥131॥ इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः । युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥132॥ न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥133॥ द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः । वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥134॥ ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् । जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥135॥ इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥136॥ सर्वागमानामाचारः प्रथमं परिकल्पते । आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥137॥ ऋषयः पितरो देवा महाभूतानि धातवः । जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥138॥ योगो ज्ञानं तथा सांख्यं विद्याः शिल्पादि कर्म च । वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥139॥ एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः । त्रीँल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥140॥ इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् । पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥141॥ विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम् । भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥142॥ Meaning Names of Lord Vishnu विश्वम्, अपांनिधि,विष्णु, अधिष्ठानम,वषट्कार, अप्रमत्त,भूतभव्यभवत्प्रभुः, प्रतिष्ठित,भूतकृत, स्कन्द,भूतभृत, स्कन्दधर,भाव, धुर्य,भूतात्मा, वरद,भूतभावन, वायुवाहन,पूतात्मा, वासुदेव,परमात्मा, बृहद्भानु,मुक्तानां परमागतिः, आदिदेव,अव्ययः, पुरन्दर,पुरुषः, अशोक,साक्षी, तारण,क्षेत्रज्ञः, तार,अक्षर, शूर,योगः, शौरि,योगविदां नेता, जनेश्वर,प्रधानपुरुषेश्वर, अनुकूल,नारसिंहवपुः, शतावर्त,श्रीमान्, पद्मी,केशव, पद्मनिभेक्षण,पुरुषोत्तम, पद्मनाभ,सर्व, अरविन्दाक्ष,शर्व, पद्मगर्भ,शिव, शरीरभृत्,स्थाणु, महार्दि,भूतादि, ऋद्ध,निधिरव्यय, वृद्धात्मा,सम्भव, महाक्ष,भावन, गरुडध्वज,भर्ता, अतुल,प्रभव, शरभ,प्रभु, भीम,ईश्वर, समयज्ञ,स्वयम्भू, हविर्हरि,शम्भु, सर्वलक्षणलक्षण्य,आदित्य, लक्ष्मीवान्,पुष्कराक्ष, समितिञ्जय,महास्वन, विक्षर,अनादिनिधन, रोहित,धाता, मार्ग,विधाता, हेतु,धातुरुत्तम, दामोदर,अप्रमेय, सह,हृषीकेश, महीधर,पद्मनाभ, महाभाग,अमरप्रभु, वेगवान,विश्वकर्मा, अमिताशन,मनु, उद्भव,त्वष्टा, क्षोभण,स्थविष्ठ, देव,स्थविरो ध्रुव, श्रीगर्भ,अग्राह्य, परमेश्वर,शाश्वत, करणं,कृष्ण, कारणं,लोहिताक्ष, कर्ता,प्रतर्दन, विकर्ता,प्रभूत, गहन,त्रिककुब्धाम, गुह,पवित्रं, व्यवसाय,मङ्गलंपरम्, व्यवस्थान,ईशान, संस्थान,प्राणद, स्थानद,प्राण, ध्रुव,ज्येष्ठ, परर्द्धि,श्रेष्ठ, परमस्पष्ट,प्रजापति, तुष्ट,हिरण्यगर्भ, पुष्ट,भूगर्भ, शुभेक्षण,माधव, राम,मधुसूदन, विराम,ईश्वर, विरज,विक्रमी, मार्ग,धन्वी, नेय,मेधावी, नय,विक्रम, अनय,क्रम, वीर,अनुत्तम, शक्तिमतां श्रेष्ठ,दुराधर्ष, धर्म,कृतज्ञ, धर्मविदुत्तम,कृति, वैकुण्ठ,आत्मवान्, पुरुष,सुरेश, प्राण,शरणम, प्राणद,शर्म, प्रणव,विश्वरेता, पृथु,प्रजाभव, हिरण्यगर्भ,अह, शत्रुघ्न,सम्वत्सर, व्याप्त,व्याल, वायु,प्रत्यय, अधोक्षज,सर्वदर्शन, ऋतु,अज, सुदर्शन,सर्वेश्वर, काल,सिद्ध, परमेष्ठी,सिद्धि, परिग्रह,सर्वादि, उग्र,अच्युत, सम्वत्सर,वृषाकपि, दक्ष,अमेयात्मा, विश्राम,सर्वयोगविनिःसृत, विश्वदक्षिण,वसु, विस्तार,वसुमना, स्थावरस्थाणु,सत्य, प्रमाणम्,समात्मा, बीजमव्ययम्,सम्मित, अर्थ,सम, अनर्थ,अमोघ, महाकोश,पुण्डरीकाक्ष, महाभोग,वृषकर्मा, महाधन,वृषाकृति, अनिर्विण्ण,रुद्र, स्थविष्ठ,बहुशिरा, अभू,बभ्रु, धर्मयूप,विश्वयोनि, महामख,शुचिश्रवा, नक्षत्रनेमि,अमृत, नक्षत्री,शाश्वतस्थाणु, क्षम,वरारोह, क्षाम,महातपा, समीहन,सर्वग, यज्ञ,सर्वविद्भानु, ईज्य,विश्वक्सेन, महेज्य,जनार्दन, क्रतु,वेद, सत्रं,वेदविद, सतांगति,अव्यङ्ग, सर्वदर्शी,वेदाङ्ग, विमुक्तात्मा,वेदवित्, सर्वज्ञ,कवि, ज्ञानमुत्तमम्,लोकाध्यक्ष, सुव्रत,सुराध्यक्ष, सुमुख,धर्माध्यक्ष, सूक्ष्म,कृताकृत, सुघोष,चतुरात्मा, सुखद,चतुर्व्यूह, सुहृत्,चतुर्दंष्ट्र, मनोहर,चतुर्भुज, जितक्रोध,भ्राजिष्णु, वीरबाहु,भोजनं, विदारण,भोक्ता, स्वापन,सहिष्णु, स्ववश,जगदादिज, व्यापी,अनघ, नैकात्मा,विजय, नैककर्मकृत्,जेता, वत्सर,विश्वयोनि, वत्सल,पुनर्वसु, वत्सी,उपेन्द्र, रत्नगर्भ,वामन, धनेश्वर,प्रांशु, धर्मगुप,अमोघ, धर्मकृत्,शुचि, धर्मी,उर्जित, सत्,अतीन्द्र, असत्,संग्रह, क्षरम्,सर्ग, अक्षरम्,धृतात्मा, अविज्ञाता,नियम, सहस्रांशु,यम, विधाता,वेद्य, कृतलक्षण,वैद्य, गभस्तिनेमि,सदायोगी, सत्त्वस्थ,वीरहा, सिंह,माधव, भूतमहेश्वर,मधु, आदिदेव,अतीन्द्रिय, महादेव,महामाय, देवेश,महोत्साह, देवभृद्गुरु,महाबल, उत्तर,महाबुद्धि, गोपति,महावीर्य, गोप्ता,महाशक्ति, ज्ञानगम्य,महाद्युति, पुरातन,अनिर्देश्यवपु, शरीरभूतभृत्,श्रीमान, भोक्ता,अमेयात्मा, कपीन्द्र,महाद्रिधृक्, भूरिदक्षिण,महेष्वास, सोमप,महीभर्ता, अमृतप,श्रीनिवास, सोम,सतांगति, पुरुजित,अनिरुद्ध, पुरुसत्तम,सुरानन्द, विनय,गोविन्द, जय,गोविदांपति, सत्यसंध,मरीचि, दाशार्ह,दमन, सात्वतांपति,हंस, जीव,सुपर्ण, विनयितासाक्षी,भुजगोत्तम, मुकुन्द,हिरण्यनाभ, अमितविक्रम,सुतपा, अम्भोनिधि,पद्मनाभ, अनन्तात्मा,प्रजापति, महोदधिशय,अमृत्यु, अन्तक,सर्वदृक्, अज,सिंह, महार्ह,सन्धाता, स्वाभाव्य,सन्धिमान्, जितामित्र,स्थिर, प्रमोदन,अज, आनन्द,दुर्मर्षण, नन्दन,शास्ता, नन्द,विश्रुतात्मा, सत्यधर्मा,सुरारिहा, त्रिविक्रम,गुरु, महर्षि कपिलाचार्य,गुरुतम, कृतज्ञ,धाम, मेदिनीपति,सत्य, त्रिपद,सत्यपराक्रम, त्रिदशाध्यक्ष,निमिष, महाशृङ्ग,अनिमिष, कृतान्तकृत्,स्रग्वी, महावराह,वाचस्पतिउदारधी, गोविन्द,अग्रणी, सुषेण,ग्रामणी, कनकाङ्गदी,श्रीमान्, गुह्य,न्याय, गभीर,नेता, गहन,समीरण, गुप्त,सहस्रमूर्धा, चक्रगदाधर,विश्वात्मा, वेधा,सहस्राक्ष, स्वाङ्ग,सहस्रपात्, अजित,आवर्तन, कृष्ण,निवृत्तात्मा, दृढ,संवृत, संकर्षणोऽच्युत,संप्रमर्दन, वरुण,अहःसंवर्तक, वारुण,वह्नि, वृक्ष,अनिल, पुष्कराक्ष,धरणीधर, महामना,सुप्रसाद, भगवान्,प्रसन्नात्मा, भगहा,विश्वधृक, आनन्दी,विश्वभुज, वनमाली,विभु, हलायुध,सत्कर्ता, आदित्य,सत्कृत, ज्योतिरादित्य,साधु, सहिष्णु,जह्नुनु, गतिसत्तम,नारायण, सुधन्वा,नर, खण्डपरशु,असंख्येय, दारुण,अप्रमेयात्मा, द्रविणप्रद,विशिष्ट, दिवःस्पृक्,शिष्टकृत, सर्वदृग्व्यास,शुचि, वाचस्पतिरयोनिज,सिद्धार्थ, त्रिसामा,सिद्धसंकल्प, सामग,सिद्धिद, साम,सिद्धिसाधन, निर्वाणं,वृषाही, भेषजं,वृषभ, भिषक्,विष्णु, संन्यासकृत,वृषपर्वा, शम,वृषोदर, शान्त,वर्धन, निष्ठा,वर्धमान, शान्ति,विविक्त, परायणम्,श्रुतिसागर, शुभाङ्ग,सुभुज, शान्तिद,दुर्धर, स्रष्टा,वाग्मी, कुमुद,महेन्द्र, कुवलेशय,वसुद, गोहित,वसु, गोपति,नैकरूप, गोप्ता,बृहद्रूप, वृषभाक्ष,शिपिविष्ट, वृषप्रिय,प्रकाशन, अनिवर्ती,ओजस्तेजोद्युतिधर, निवृत्तात्मा,प्रकाशात्मा, संक्षेप्ता,प्रतापन, क्षेमकृत्,ऋद्ध, शिव,स्पष्टाक्षर, श्रीवत्सवक्षा,मन्त्र, श्रीवास,चन्द्रांशु, श्रीपति,भास्करद्युति, श्रीमतां वर,अमृतांशूद्भव, श्रीद,भानु, श्रीश,शशबिन्दु, श्रीनिवास,सुरेश्वर, श्रीनिधि,औषधं, श्रीविभावन,जगतसेतु, श्रीधर,सत्यधर्मपराक्रमः, श्रीकर,भूतभव्यभवन्नाथ, श्रेय,पवन, श्रीमान,पावन, लोकत्रयाश्रय,अनल, स्वक्ष,कामहा, स्वङ्ग,कामकृत्, शतानन्द,कान्त, नन्दि,काम, ज्योतिर्गणेश्वर,कामप्रद, विजितात्मा,प्रभु, अविधेयात्मा,युगादिकृत, सत्कीर्ति,युगावर्त, छिन्नसंशय,नैकमाय, उदीर्ण,महाशन, सर्वतश्चक्षु,अदृश्य, अनीश,व्यक्तरूप, शाश्वतस्थिर,सहस्रजित्, भूशय,अनन्तजित्, भूषण,इष्ट, भूति,अविशिष्ट, विशोक,शिष्टेष्ट, शोकनाशन,शिखण्डी, अर्चिष्मान,नहुष, अर्चित,वृष, कुम्भ,क्रोधहा, विशुद्धात्मा,क्रोधकृत्कर्ता, विशोधन,विश्वबाहु, अनिरुद्ध,महीधर, अप्रतिरथ,अच्युत, प्रद्युम्न,प्रथित, अमितविक्रम,प्राण, कालनेमिनिहा,प्राणद, वीर,वासवानुज, शौरि,वाजसन, शूरजनेश्वर,शृङ्गी, त्रिलोकात्मा,जयन्त, त्रिलोकेश,सर्वविज्जयी, केशव,सुवर्णबिन्दु, केशिहा,अक्षोभ्य, हरि,सर्ववागीश्वरेश्वर, कामदेव,महाह्रद, कामपाल,महागर्त, कामी,महाभूत, कान्त,महानिधि, कृतागम,कुमुद, अनिर्देश्यवपु,कुन्दर, विष्णु,कुन्द, वीर,पर्जन्य, अनन्त,पावन, धनंजय,अनिल, ब्रह्मण्य,अमृतांश, ब्रह्मकृत,अमृतवपु, ब्रह्मा,सर्वज्ञ, ब्रह्म,सर्वतोमुख, ब्रह्मविवर्धन,सुलभ, ब्रह्मवित,सुव्रत, ब्राह्मण,सिद्ध, ब्रह्मी,शत्रुजित, ब्रह्मज्ञ,शत्रुतापन, ब्राह्मणप्रिय,न्यग्रोध, महाक्रम,उदुम्बर, महाकर्मा,अश्वत्थ, महातेजा,चाणूरान्ध्रनिषूदन, महोरग,सहस्रार्चि, महाक्रतु,सप्तजिह्व, महायज्वा,सप्तैधा, महायज्ञ,सप्तवाहन, महाहवि,अमूर्ति, स्तव्य,अनघ, स्तवप्रिय,अचिन्त्य, स्तोत्रं,भयकृत, स्तुति,भयनाशन, स्तोता,अणु, रणप्रिय,बृहत, पूर्ण,कृश, पूरयिता,स्थूल, पुण्य,गुणभृत, पुण्यकीर्ति,निर्गुण, अनामय,महान्, मनोजव,अधृत, तीर्थकर,स्वधृत, वसुरेता,स्वास्य, वसुप्रद,प्राग्वंश, वसुप्रद,वंशवर्धन, वासुदेव,भारभृत्, वसु,कथित, वसुमना,योगी, हवि,योगीश, सद्गति,सर्वकामद, सत्कृति,आश्रम, सत्ता,श्रमण, सद्भूति,क्षाम, सत्परायण,सुपर्ण, शूरसेन,वायुवाहन, यदुश्रेष्ठ,धनुर्धर, सन्निवास,धनुर्वेद, सुयामुन,दण्ड, भूतावास,दमयिता, वासुदेव,दम, सर्वासुनिलय,अपराजित, अनल,सर्वसह, दर्पहा,नियन्ता, दर्पद,अनियम, दृप्त,अयम, दुर्धर,सत्त्ववान्, अपराजित,सात्त्विक, विश्वमूर्ति,सत्य, महामूर्ति,सत्यधर्मपरायण, दीप्तमूर्ति,अभिप्राय, अमूर्तिमान्,प्रियार्ह, अनेकमूर्ति,अर्ह, अव्यक्त,प्रियकृत्, शतमूर्ति,प्रीतिवर्धन, शतानन,विहायसगति, एक,ज्योति, नैक,सुरुचि, सव,हुतभुक, कः,विभु, किं,रवि, यत्,विरोचन, तत्,सूर्य, पदमनुत्तमम्,सविता, लोकबन्धु,रविलोचन, लोकनाथ,अनन्त, माधव,हुतभुक, भक्तवत्सल,भोक्ता, सुवर्णवर्ण,सुखद, हेमाङ्ग,नैकज, वराङ्ग,अग्रज, चन्दनाङ्गदी,अनिर्विण्ण, वीरहा,सदामर्षी, विषम,लोकाधिष्ठानाम्, शून्य,अद्भूत, घृताशी,सनात्, अचल,सनातनतम, चल,कपिल, अमानी,कपि, मानद,अव्यय, मान्य,स्वस्तिद, लोकस्वामी,स्वस्तिकृत्, त्रिलोकधृक्,स्वस्ति, सुमेधा,स्वस्तिभुक, मेधज,स्वस्तिदक्षिण, धन्य,अरौद्र, सत्यमेधा,कुण्डली, धराधर,चक्री, तेजोवृष,जन्ममृत्युजरातिग, द्युतिधर,भूर्भुव:स्वस्तरु, सर्वशस्त्रभृतांवर,तार, प्रग्रह,सविता, निग्रह,प्रपितामह, व्यग्र,यज्ञ, नैकशृङ्ग,यज्ञपति, गदाग्रज,यज्वा, चतुर्मूर्ति,यज्ञाङ्ग, चतुर्बाहु,यज्ञवाहन, चतुर्व्यूह,यज्ञभृत्, चतुर्गति,यज्ञकृत्, चतुरात्मा,यज्ञी, चतुर्भाव,यज्ञभुक, चतुर्वेदवित्,यज्ञसाधन, एकपात्,यज्ञान्तकृत्, समावर्त,यज्ञगुह्यम्, अनिवृत्तात्मा,अन्नं, दुर्जय,अन्नाद, दुरतिक्रम,आत्मयोनि, दुर्लभ,स्वयंजात, दुर्गम,वैखान, दुर्ग,सामगायन, दुरावासा,देवकीनन्दन, दुरारिहा,सृष्टा, शुभाङ्ग,क्षितीश, लोकसारङ्ग,पापनाशन, सुतन्तु,शङ्खभृत्, तन्तुवर्धन,नन्दकी, इन्द्रकर्मा,चक्री, महाकर्मा,शार्ङ्गधन्वा, कृतकर्मा,गदाधर, कृतागम,रथाङ्गपाणि, उद्भव,अक्षोभ्य, सुन्दर,सर्वप्रहरणायुध, सुन्द,चतुरश्र, रत्ननाभ,गभीरात्म, सुलोचन,विदिश, अर्क,व्यादिश, विक्रमी,दिश, उर्जितशासन,अनादि, शब्दातिग,भुवोभुव, शब्दसह,लक्ष्मी, शिशिर,सुवीर, शर्वरीकर,अधाता, अक्रूर,आधारनिलय, पेशल,ऊर्ध्वग, दक्ष,एकात्मा, दक्षिण,जनजन्मादि, क्षमिणां वर,जनन, विद्वत्तम,तत्त्वं, वीतभय,तत्त्ववित्, पुण्यश्रवणकीर्तन,पण, उत्तारण,पुष्पहास, दुष्कृतिहा,प्रजागर, पुण्य,प्रणव, दुःस्वप्ननाशन,प्रमाणम्, वीरहा,प्राणजीवन, रक्षण,प्राणद, सन्त,प्राणनिलय, जीवन,प्राणभृत्, पर्यवस्थित,भीम, अनन्तरूप,भीमपराक्रम, अनन्तश्री,रुचिराङ्गद, जितमन्यु,विश्वम, भयापह

Spiritual Significance Of Vishnu Sahasranama

Regular recitation of this stotra is a complete spiritual discipline in itself.

  1. Inner Purification: The constant vibration of divine names cleanses mental impressions, subdues negative tendencies and brightens sattva.

  2. Mind Control And Peace: The rhythmic flow of names steadies the wandering mind, reduces anxiety and creates deep inner calm.

  3. Awakening Of Wisdom: As consciousness aligns with divine qualities, discrimination, clarity and wise decision making naturally arise.

  4. Devotion And Surrender: Chanting cultivates loving surrender to Vishnu as the protector, guide and inner self of all.

  5. Movement Toward Liberation: Fear of death weakens, attachment loses its hold and the soul begins to seek the eternal rather than the temporary.

Benefits Of Reciting Vishnu Sahasranama

  1. Release From Sin And Negativity: Remembrance of the Lord’s names gradually dissolves the grip of past wrong actions and harmful mental patterns.

  2. Mental Calm And Emotional Healing: It is a powerful remedy for stress, grief, confusion and inner restlessness.

  3. Health And Vitality: By pacifying the mind and harmonizing prana, it indirectly supports healing and strength in times of illness.

  4. Relief In Planetary Afflictions: Tradition regards it as especially beneficial for issues linked to Jupiter, Mercury and Rahu when chanted with faith and discipline.

  5. Support In Marriage And Relationships: For those facing delays or obstacles in marriage, sincere recitation is held to invite divine grace and harmony.

  6. Prosperity And Stability: As Vishnu is the preserver, his names draw stability, order, wise use of wealth and steady progress in career and family life.

  7. Blessings Of Progeny: Couples seeking children often adopt Vishnu Sahasranama as a regular vow for divine grace in this area.

Method Of Reciting Vishnu Sahasranama

For the practice to bear its full fruit, certain simple yet important guidelines are followed.

  1. Time: Early morning, especially Brahma Muhurta, is ideal. Evening recitation is also auspicious.

  2. Purity: Bathe, wear clean clothes and quieten the mind before beginning.

  3. Seat And Place: Sit on a mat of kusha, wool or cloth in a clean space facing an image of Vishnu, Lakshmi-Narayana or Shaligrama.

  4. Sankalpa: Silently resolve your intention, whether for inner purity, protection, specific needs or pure devotion.

  5. Chanting: Recite at a steady pace with as accurate pronunciation as possible, focusing not on speed but on awareness of the Lord behind each name.

  6. Completion: Conclude with an arati, offering of food or water and bowing down in gratitude.

  7. Sacred Days: Thursdays, Ekadashi, Purnima and Vaikuntha Ekadashi are especially recommended for extended recitation.

Vishnu Sahasranama As A Way Of Living

This stotra is more than a ritual text; it is a blueprint for dharmic living.

  1. It reminds us that God is both the law and the love behind the universe.

  2. It inspires qualities such as compassion, patience, truthfulness, generosity and fearlessness.

  3. It gradually shifts one’s identity from “I am the doer” to “I am the servant and child of the Lord”.

By meditating on names that describe Vishnu as protector of cows, guardian of the earth, friend of the good, destroyer of pride and refuge of the surrendered, a devotee learns to reflect these same values in daily life.

Conclusion

Vishnu Sahasranama Stotram is a timeless gift to humanity. In an era of anxiety and distraction, it offers a stable, luminous path back to the heart. Through these thousand names, the seeker comes to feel Vishnu not only as a distant deity but as the inner presence sustaining every breath, every step and every opportunity for growth.

To make this hymn a part of one’s daily routine, even in a small way, is to invite into life a stream of grace that quietly purifies, protects and leads the soul toward its own highest potential.

FAQ

1.Who can recite Vishnu Sahasranama and do I need initiation?

Anyone with sincere faith, pure intent and respect may recite it. No formal initiation is strictly required, though guidance from a guru or knowledgeable devotee is always beneficial.

2. How long does it take to chant Vishnu Sahasranama once?

A complete recitation usually takes about 20 to 30 minutes depending on speed and familiarity, making it practical even for householders with busy schedules.

3. Is it necessary to understand Sanskrit to gain benefit?

Understanding Sanskrit deepens the impact but is not mandatory. Even without full comprehension, heartfelt chanting purifies the heart, and gradually studying the meanings enhances the transformation.

4. Can I listen to a recording instead of reciting myself?

Listening with full attention and reverence is also beneficial, especially for beginners, yet combining listening with gradual personal recitation tends to create the strongest spiritual effect.

5. Is Vishnu Sahasranama only for Vaishnavas or can devotees of other deities chant it too?

It can be chanted by any seeker. Many Shaiva, Shakta and Smarta practitioners also include it, seeing Vishnu as one aspect of the same supreme reality.

6. What if I miss a day in my daily practice?

Sincere continuity is more important than perfection. If a day is missed, resume humbly the next day, maintaining long term commitment rather than guilt or rigidity.

7. Can Vishnu Sahasranama be used as a family practice?

Yes, families often recite it together weekly or on Ekadashi, helping children grow with faith, discipline and a living connection to the divine presence of Lord Vishnu.

Back to blog